ऍस्ट्रोलॉजी

कावेरी अष्टकम, कावेरी भुजङ्ग स्तोत्रम्, कावेरी प्रार्थना

कावेरी अष्टकम, कावेरी भुजङ्ग स्तोत्रम्, कावेरी प्रार्थना

कथं सह्यजन्ये सुरामे सजन्ये
प्रसन्ने वदान्याः भवेयुर्वदान्ये ।
सपापस्य मन्ये गतिमम्ब मान्ये
कवेरस्य धन्ये कवेरस्य कन्ये ॥ १॥

कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे
जलाक्रान्तरङ्गे जवोद्योतरङ्गे ।
नभश्चुम्बिवन्येभसम्पद्विमान्ये
नमस्ते वदान्ये …

कावेरी भुजङ्ग स्तोत्रम् Kaveri Bhujangastotram

कथं सह्यजन्ये सुरामे सजन्ये

प्रसन्ने वदान्याः भवेयुर्वदान्ये ।

सपापस्य मन्ये गतिमम्ब मान्ये

कवेरस्य धन्ये कवेरस्य कन्ये ॥ १॥

 

कृपाम्बोधिसङ्गे कृपार्द्रान्तरङ्गे

जलाक्रान्तरङ्गे जवोद्योतरङ्गे ।

नभश्चुम्बिवन्येभसम्पद्विमान्ये

नमस्ते वदान्ये कवेरस्य कन्ये ॥ २॥

 

समा ते न लोके नदी ह्यत्र लोके

हताशेषशोके लसत्तट्यशोके ।

पिबन्तोऽम्बु ते के रमन्ते न नाके

नमस्ते वदान्ये कवेरस्य कन्ये ॥ ३॥

 

महापापिलोकानपि स्नानमात्रान्

महापुण्यकृद्भिर्महत्कृत्यसद्भिः ।

करोष्यम्ब सर्वान्सुराणां समानान्

नमस्ते वदान्ये कवेरस्य कन्ये ॥ ४॥

 

अविद्यान्तकर्त्री विशुद्धप्रदात्री

सस्यस्यवृद्धिं तथाऽऽचारशीलम् ।

ददास्यम्ब मुक्तिं विधूय प्रसकित्म्

नमस्ते वदान्ये कवेरस्य कन्ये ॥ ५॥

 

॥ इति कावेरीभुजङ्गस्तोत्रम् सम्पूर्णम् ॥

 

************* 

 

कावेरी प्रार्थना Kaveri Prarthana

 

मरुद्धृते महाभागे महादेवि मनोहरे । सर्वाभीष्टप्रदे देवि स्नास्थितां पुण्यवर्धिनि ॥१॥

सर्वपापक्षयकरे मम पापं विनाशय । कवेरकन्ये कावेरि समुद्रमहिषिप्रिये ॥२॥

देहि मे भक्तिमुक्ति त्वं सर्वतीर्थस्वरूपिणि । सिन्धुवर्ये दयासिन्धो मामुद्धर दयांबुधे ॥३॥

स्त्रियं देहि सुतं देहि श्रियं देहि ततः स्वगा । आयुष्यं देहि चारोग्यं ऋणान्मुक्तं कुरुष्व माम् ॥४॥

तासां च सरितां मध्ये सह्यकन्याघनाशिनि । कावेरि लोकविख्याता जनतापनिवारिणि ॥५॥

इति ब्रह्माण्ड पुराणे कावेरी प्रार्थना ॥

यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥

अधितिष्ठन्ति भूतानि उपादानकारणत्वेन ब्रह्मेति अधिष्ठानम् ।

`मत्स्थानि सर्वभूतनि’ ( गीता ९।४) इति भगवद्वचनात् ।

यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयम् । योऽस्मात् परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम् ॥

विद्या-विनय-संपन्ने ब्राह्मणे गवि हस्तिनि । शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥

 

इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमग् सचता परुष्णिया ।

असिक्निया मरुद्धृधे वितस्तया । अऽजीकीये शृणुह्या सुषोमया ॥

कामकोटिपुरीं

काञ्चीं कावेरीं च सरिद्वराम् । क्वचित् क्वचिन्महाराज द्रविडेषु च भूरिशः ।

ताम्रपर्णी नदी यत्र कृतमाला पयस्विनी । कावेरी च महापुण्या प्रतीची च महानदी ॥

( भविष्यन्ति नारायणपरायणाः ।)

ततस्तामापगां दिव्यां प्रसन्नसलिलां शिवाम् । तत्र द्रक्ष्यथ कावेरीं विहृतां अप्सरोगणैः ॥

अहं दक्षिणगङ्गेति विश्रुता वेदमूर्धनि । इमां मधुरपानीयां दक्षिणापथजाह्नवीम् ॥

कावेरि त्रिजन्मानः कावेरि सलिलाप्लुता । कावेरि वाताद्यै स्पृष्ठा यान्ति हरेःपदम् ॥

ककारः कलुषं हन्ति, वेकारो वाञ्छितप्रदः । रीकारो मोक्षदो नृणां कावेरीत्यवधारय ॥

वेलातीत श्रुतिपरिमलं वेधसांमौलि सेव्यं प्रादुर्भूतं कनकसरितस्सैकते हंसजुष्टे ।

लक्ष्मीभूम्योः करसरसिजैर्लालितं रङ्गभर्तुः पादांभोज प्रतिपलतु मे भावनादीर्घिकायाम् ॥

महारहस्यं किञ्चात्र शृणुष्वात्यद्भुतं शुभे । ब्रवीमि दिव्यदृष्ट्याद्य सर्वशास्त्रेषु निश्चितम् ॥

महापातकिनां पापं मोचयन्त्यः क्षणेन हि । गङ्गादिका महानद्यस्तीर्थानि च महान्ति च ॥

मलीकृताश्च तत्पापैः अशक्तास्तद्विमोचने । शोचयन्त्यः परं देवं यान्ति लोकपितामहम् ॥

तासां विशुद्धये ब्रह्मा सभायां मुनिभिः सह । सम्यग्विचार्य शास्त्रेषु वेदेषु च पुनः पुनः ॥

हरिणा च ततः प्रोक्तं प्रायश्चित्तं विधास्यता । स्नास्यन्तु सह्यधात्र्यग्रे कावेर्यां तौलिसङ्गमे ॥

षट्षष्टिकोटि तीर्थानि द्विसप्त-भुवनेषु च । तानि चायान्ति कावेर्यां स्वाघौघ-विनिवृत्तये ॥

अहं तु वैखानस वालखिल्यैरन्यैः मुनीन्द्रैस्सनकादिभिश्च । सर्वत्र ते पुण्यतटे वसामि ॥

विभूत्यै दाक्षिणत्यानां क्षेमाय विजयाय च । मया चैवाभ्यनुज्ञाता गच्छ देवि यथासुखम् ॥

अच्छ-स्वच्छ-लसद्-दुकूलवसनां पद्मासनाध्यायिनीं हस्त-न्यस्त-वराभयाब्ज-कलशां राकेन्दु-कोटि-प्रभाम् ।

भास्वद्-भूषण-गन्ध-माल्य-रुचिरां चारु-प्रसन्नाननां श्रीगङ्गादि-समस्त-तीर्थ-निलयां ध्यायामि कावेरिकाम् ॥

 

॥ॐ तत्सत् ॥

 

************* 

कावेर्यष्टकम्

कावेरी अष्टकम Kaveri Ashtakam

 

मरुद्वृधे मान्यजलप्रवाहे

कवेरकन्ये नमतां शरण्ये ।

मान्ये विधेर्मानसपुत्रि सौम्ये

कावेरि कावेरि मम प्रसीद ॥ १॥

 

देवेशवन्द्ये विमले नदीशि

परात्परे पावनि नित्यपूर्णे ।

समस्तलोकोत्तमतीर्थपादे

कावेरि कावेरि मम प्रसीद ॥ २॥

 

वेदानुवेद्ये विमलप्रवाहे

विशुद्धयोगीन्द्रनिवासयोग्ये ।

रङ्गेशभोगायतनात्तपारे

कावेरि कावेरि मम प्रसीद ॥ ३॥

 

भक्तानुकम्पे ह्यतिभाग्यलब्धे

नित्ये जगन्मङ्गलदानशीले ।

निरञ्जने दक्षिणदेशगङ्गे

कावेरि कावेरि मम प्रसीद ॥ ४॥

 

कलिप्रमादाखिलदोषनाशे

कारुण्यपूर्णे कमलायताक्षे ।

कदम्बकल्हारसुगन्धिपूरे

कावेरि कावेरि मम प्रसीद ॥ ५॥

 

अनन्तदिव्यामलमोक्षदात्रि

दुरन्तसंसारविमोचनाङ्घ्र्ये

सह्याचलोत्पन्नविश्वस्वरूपे

कावेरि कावेरि मम प्रसीद ॥ ६॥

 

देवालयापूरितदिव्यतीरे

समस्तलोकोत्तमतीर्थमूर्धे

काश्मीरभूःकल्पितचोलदेशे

कावेरि कावेरि मम प्रसीद ॥ ७॥

 

प्रसीद कल्याणगुणाभिरामे

प्रसीद कावेरि मम प्रसीद

प्रसीद कामादिहरे पवित्रे

कावेरि कावेरि मम प्रसीद ॥ ८॥

 

काकारो कल्मषं हन्ति

वेकारो वाञ्छितप्रदः

रीकारो मोक्षदो नॄणां

कावेरीत्युच्यते बुधैः ॥ ९॥

 

॥ इति कावेर्यष्टकं सम्पूर्णम् ॥

Go to Source

Related Articles

Back to top button
DMCA.com Protection Status